|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.216. अध्यायः 216
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्रह्मचर्योपायादिप्रतिपादकवार्ष्णेयाध्यात्मानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
गुरुरुवाच। 12-216-0x(6092)(73758)
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा।
तत्त्वज्ञानाच्चरन्राजन्प्राप्नुयात्परमां गतिम्॥ 12-216-1(73759)
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः॥ 12-216-2(73760)
सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः।
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः॥ 12-216-3(73761)
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि।
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः॥ 12-216-4(73762)
तांस्तानुपासते धर्मान्धर्मकामा यथागमम्।
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्॥ 12-216-5(73763)
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान्॥ 12-216-6(73764)
यदिदं ब्रह्मणो रूपं ब्रह्मंचर्यमिति स्मृतम्।
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्॥ 12-216-7(73765)
लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम्।
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्॥ 12-216-8(73766)
वाक्संभाषाप्रवृत्तं यत्तन्मनः परिवर्जितम्।
बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम्॥ 12-216-9(73767)
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान्।
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः॥ 12-216-10(73768)
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु।
संप्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः॥ 12-216-11(73769)
योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः।
कथंचिद्दर्शनादासां दुर्बलानां विशेद्रजः॥ 12-216-12(73770)
रागोत्पन्नश्चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः।
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम्॥ 12-216-13(73771)
पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम्।
ज्ञानयुक्तेन मनसा संततेन विचक्षणः॥ 12-216-14(73772)
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्।
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्॥ 12-216-15(73773)
`अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम्।
नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते॥ 12-216-16(73774)
देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम्।
बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम्॥ 12-216-17(73775)
छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम्।
अन्तस्यं स्रंसते तद्वज्जलं देहेषु देहिनाम्॥ 12-216-18(73776)
श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च।
कफजालविनिर्यासः सरसश्चित्त मुञ्चय॥' 12-216-19(73777)
वातपित्तकफान्रक्तं त्वङ्भांसं स्नायुमस्थि च।
मज्जां देहं सिराजालैस्तर्पयन्ति रसा नृणाम्॥ 12-216-20(73778)
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः।
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सहस्रशः॥ 12-216-21(73779)
एवमेताः सिरा नद्यो रसोदा देहसागरम्।
तर्पयन्ति यथाकालमापगा इव सागरम्॥ 12-216-22(73780)
मध्ये च हृदयस्यैका सिरा तत्र मनोवहा।
शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति॥ 12-216-23(73781)
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः।
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्॥ 12-216-24(73782)
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः।
शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः॥ 12-216-25(73783)
स्वप्नेऽप्येवं यथाऽभ्येति मनः संकल्पजं रजः।
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहाः॥ 12-216-26(73784)
महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसंभवम्।
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते॥ 12-216-27(73785)
ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम्।
विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम्॥ 12-216-28(73786)
गुणानां साम्यमागम्य मनसैव मनोवहम्।
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते॥ 12-216-29(73787)
भविता मनसो ज्ञानं मन एव प्रजायते।
ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम्॥ 12-216-30(73788)
तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम्।
देहबीजं समुत्पन्नमस्मित्कर्मणि विद्यते॥ 12-216-31(73789)
न स्मरेन्न प्रयुञ्जीत ज्ञानी तत्कर्म बुद्धिमान्।
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्॥ 12-216-32(73790)
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्॥ 12-216-33(73791)
`एव पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु।
आदत्ते हृदये कामं व्याध्यादिभिरभिप्लुतः॥ 12-216-34(73792)
यतस्ततः परिपतन्नविन्दन्सुखमण्वपि।
बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः।
ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते॥' 12-216-35(73793)
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम्।
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते॥ ॥ 12-216-36(73794)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः॥ 216॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-216-10 कन्यसीं कनीयसीम्॥ 12-216-11 निगृह्णीयाच्चलं मन इति ध. पाठः॥ 12-216-12 रजो रागः॥ 12-216-20 सिरानाड्यस्तासां जालैः॥ 12-216-21 धमन्यो नाड्यः। याभिः सूक्ष्माः प्रतायन्ते इति झ. पाठः॥ 12-216-24 सर्वगात्रप्रवाहिन्यः इति ध. पाठः॥ 12-216-25 स्वजैर्मन्थनदण्डैः। देहस्थात् संकल्पात् खेभ्य इन्द्रियेभ्यश्च जातैः संकल्पजैः स्वजैः स्त्रीदर्शनस्पर्शनादिभिः॥ 12-216-26 शुक्रं संकल्पजं देहात्सृजत्यस्य मनोवहा इति झ. पाठः॥ 12-216-27 त्रिबीजमिन्द्रदैवत्यं इति झ. पाठः॥ 12-216-31 तदभिघाताय मनोनाशाय। अकल्मषं निवृत्तिरूपम्॥ 12-216-32 यथेष्टां गतिमाप्नुयात् इति झ. पाठः। तत्र यथा येन प्रकारेण इष्टां गतिं मोक्षम्॥ 12-216-33 जरया दुर्बलता तां। तृतीया तत्कृतार्थेनेति समासः। मानसंबलं संकल्पमादत्ते संहरति। काले पूर्वभाग्येन नतु दृष्टयोग्यतया॥ 12-216-36 गुणा देहेन्द्रियादयस्तदेव बन्धनम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|